|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.23. अध्यायः 023
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
युधिष्ठिरादिभिः कुन्तीधृतराष्ट्रादीनां प्रव्रजनशोकेनाभिमन्युप्रभृतिबन्धुजनानुस्मरणजशोकेन स्वस्वव्यापारेष्वप्यनादरणम्॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
वनं गते कौरवेन्द्रे दुःखशोकसमन्विताः।
बभूवुः पाण्डवा राजन्मातृशोकेनि चान्विताः॥ 16-23-1(97785)
तथा पौरजनः सर्वः शोचन्नास्ते जनाधिपम्।
कुर्वाणाश्च कथास्तत्र ब्राह्मणा नृपतिं प्रति॥ 16-23-2(97786)
कथं न राजा वृद्धः स वने वसति निर्जने।
गान्धारी च महाभागा सा च कुन्ती पृथा कथम्॥ 16-23-3(97787)
सुखार्हः स हि राजर्षिरसुखी तद्वनं महत्।
किमवस्थः समासाद्य प्रज्ञाचक्षुर्महामनाः॥ 16-23-4(97788)
सुदुष्करं कृतवती कुन्ती पुत्रानपास्य सा।
राज्यश्रियं परित्यज्य वनं सा समरोचयत्॥ 16-23-5(97789)
विदुरः किमवस्थश्च भ्रातृशुश्रूषुरात्मवान्।
स च गावल्गणिर्धीमान्भर्तृपिण्डानुपालकः॥ 16-23-6(97790)
आकुमारं च पौरास्ते चिन्ताशोकसमाहताः।
तत्रतत्र कथाश्चक्रुः समासाद्य परस्परम्॥ 16-23-7(97791)
पाण्डवाश्चैव ते सर्वे भृशं शोकपरायणाः।
शोचन्तो मातरं वृद्धामूषुर्नातिचिरं पुरे॥ 16-23-8(97792)
तथैव वृद्धं पितरं हतपुत्रं जनेश्वरम्।
गान्धारीं च महाभागां विदुरं च महामतिम्॥ 16-23-9(97793)
नैषां बभूव सम्प्रीतिस्तान्विचिन्तयतां तदा।
न राज्ये न च नारीषु न वेदाध्ययनेषु च॥ 16-23-10(97794)
परं निर्वेदमगमंश्चिन्तयन्ता नराधिपम्।
तं च ज्ञातिवधं घोरं संस्मरन्तः पुनःपुनः॥ 16-23-11(97795)
अभिमन्योश्च बालस्य विनाशं रणमूर्धनि।
कर्णस्य च महाबाहोः सङ्ग्रामेष्वपलायिनः॥ 16-23-12(97796)
तथैव द्रौपदेयानामन्येषां सुहृदामपि।
वधं संस्मृत्य ते वीरा नातिप्रमनसोऽभवन्॥ 16-23-13(97797)
हतप्रवीरां पृथिवीं हृतरत्नां च भारत।
सदैव चिन्तयन्तस्ते न शमं चोपलेभिरे॥ 16-23-14(97798)
द्रौपदी हतपुत्रा च सुभद्रा चैव भामिनी।
नातिप्रीतियुते देव्यौ तदास्तामप्रहृष्टवत्॥ 16-23-15(97799)
वैराट्यास्तनयं दृष्ट्वा पितरं ते परिक्षितम्।
धारयन्ति स्म ते प्राणांस्तव पूर्वपितामहाः॥ ॥ 16-23-16(97800)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि त्रयोविंशोऽध्यायः॥ 23 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|